Saturday, December 29, 2007

भूमरङ्गः

कस्यापि गृहम् । पुत्री पठनार्थम् अद्य ग्हतः विश्वविद्यालयं प्रति प्रस्थानं करोति । सा वदति अद्य मम प्रथम-दिनं भविश्यति यस्मिन् अहम् गृहे वासं न क्तवती इति । तदा मातापितरौ बहुखिनौ । तौ रोदनं कुरुतः । परन्तु तस्मिन् समये पुत्री न रोदिति । केवलं यदा शुनकः तस्याः समीपं आगत्य, लघु-चुम्बितानि ददाति, तदा अश्रूनि स्रवन्ति । मम शुनकं जागरूकतया पोषयतु इति सा मातापितरौ प्रार्थयति । तौ अनुमन्यतां । पुत्री खेदेन गृहतः प्रतिष्टति

परेद्यवि पिता पत्नीं वदति तेन शुनकेन गन्तव्यं । सः सर्वदा भषति, सर्वत्र मलिनं करोति, दुर्गन्धं अपि जनयति च । एतस्मिन् गृहे सः न तिष्टतु । माता अपि तथा चिन्तयति वदति च पुत्रीं मा वदाम । वदेम चेत्, सा कुपिता भवेत् । एतेन चिन्तनेन पिता कार्यालयस्य सहयोगिनिं प्रुच्छति यदि भवान् शुनकं इच्छति । सः प्रतिवदति यत् आम् । अतः मतापित्राभ्यां सः शुनकः दत्तः ।

किञ्चित् समयानन्तं पुत्री विरामसमये गृहम् आगच्छति । तदा सा पृच्छति यत् शुनकः कुत्र अस्ति? मता वृतान्तं कथयति । पुत्री बहुकृद्धा दुखिता च । सा मतापितरौ निन्दित्वा सहयोगिनः गृहं गच्छति । क्षम्यताम् मम मातापितरौ मम अनुमतिं विना एतं शुनकं दत्तवन्तौ । अहं तं शुनकं पुनः स्वीकर्तुम् इच्छामि इति । सः सहयोगी शुनकं प्रत्यर्पयति ।

विरामानन्तरं पुत्री प्रस्थिता । शुनकं दृष्ट्वा रोदिति । परन्तु एतस्मिन् समये सा मातापितरौ वदति ताम् कस्मैचित् मा ददातु इति । सा गच्छति ।

परेद्यवि पिता मातरं वदति एतेन शुनकेन गृहं गन्तव्यम् इति । पत्नी अनुमन्यते । शुनकः एकाय मित्राय दत्तः । परन्तु किञ्चित् समयानन्तरं तेन मित्रेण भारतं गतम् । यदा मित्रेण आगतं शुनकस्य प्रतिदानार्थम्, तदा पित्रा उक्तं भवत्याः मातामह्या सह शुनकं त्यजतु । तथा क्तम् । परन्तु किञ्चित् समयानन्तरम् सा मातामही अपि भरतं गच्छति । तस्मिन् समये एव पुत्री विश्वविद्यालयतः विराम-समये आगत्य, कूपिता भूत्वा शुनकं गृहं आनयति ।

शुनकेन पराजितः पिता वदति यत् भवतु नाम...एशः भूमरङ्गः । सः सर्वदा पुनराअगच्छति ।

1 comment:

Anonymous said...

जनाः वदन्ति अस्माकं कार्याणि अपि ईदृशानि एव भवन्ति । यदि सत्कार्यं करोति तस्य फलं पुनरागच्छति । दुष्कार्याणां फलानि अपि पुनरागच्छन्ति इति ।
यद्यपु भवत्याः विषयस्य साक्षात् सम्बनधः नास्ति अस्मिन् विषये भवत्याः लेखनं पठित्वा मनसि एषः विचारः आगतः ।