
गतसप्ताहे अहं केषामपि कुटुम्बस्य गृहं गतवती आसम् । सामान्यतया यत्र रात्रौ भोजनार्थं गच्छामि तत्र वासं करोमि । तथा कृतं मया । भोजनं दत्त्वा, सा माता उक्तवती भवती मम पुत्रस्य प्रकोष्टे निद्रातु । सः सानुजः अन्यस्मिन् प्रकोष्टे स्वपिति । सः पुत्रः प्रकोष्टस्य परिचयं क्तवान् अत्र व्यजनम् अस्ति, अत्र दीपस्य पिञ्जः अस्ति, इत्यादः । परन्तु विशेषतया सः उद्दिष्टवान् तत्र उत्पीटिकायां एका घटी अस्ति । अनन्तरं सः प्रदर्शित्वान् यत् यद्यपि दीपः निर्वापितः अस्ति, तथापि रक्तवर्णीयेन प्रकाशेन समयः उपरि भित्त्यां दृश्यते ! एतेन दर्शनेन अहं बह्वी आश्चर्यचिकिता अभवम् । मम आजन्माशा पूरिता इति चिन्तितवती । सर्वदा अहं रात्रौ जागृता भवामि । यदा उत्थिता भवामि, मम मनसि प्रश्नः जायते कः समयः इति । कष्टेन (अहम् उपनेत्रं धरामि अतः बहुवारं यदा उत्थिता भवामि अन्धकारे किं लिखितम् अस्ति घट्याम् इति ज्नातुम् अपि न शक्नोमि) कथंश्चित् घटिं पश्यामि । परन्तु एतया घट्या सा समस्या नास्ति! आ रात्र्यः सुखेन भित्त्यां पस्यन्ती भवितुम् शक्नोमि...परन्तु तर्हि निद्रा नैव जायते !
No comments:
Post a Comment