Monday, December 17, 2007

मम प्रथमः प्रियः


अद्य कस्यापि ब्लोग् पठनसमये एकस्मिन् विषये मम स्मरणम् अभवत् । मम प्रथमः प्रियः कः आसीत् ? आ बाल्यात् तम्सिन् मम अनुरागः आसीत् । सः कथं लभ्यते, केन प्रकारेण लभ्यते, मम मातुः ज्ञानं विना तस्य आस्वादनं कथं साध्यम् इति चिन्तनं सदा चलत् आसीत् ।

मम बाल्यकाले तस्य परिचयः अभवत् । कथं उत कदा वा इति न स्मर्यते परन्तु मम चतुर्थे अथवा पञ्चमे वर्षे वा स्यात् । तस्मिन् समये अहं सखीनां गृहाणि गन्तुं आरभे स्म । विशेषतया मम एकस्याः सख्याः गृहं यत्र सदा एषः लब्दः । सः सर्वदा उन्नतः कृशः च । अपि च सः किञ्चित् लवणः । आम्रेण मिश्रितः सः बहु रुचिकरः आसीत् ।

परन्तु अनन्तरं मया ज्ञातं यत् यस्य रूपं तथा सर्वदा न भवति एव । तथापि तस्मिन् मम प्रियत्वं वृद्धम् । कदाचित् स्थूलः, कदाचित् श्वेतवर्णीयः, कदाचित् पीतवर्णीयः । येन रूपेण सः आगतः तत् रूपं असमानं भवति स्म । खण्दः द्रवः चूर्णः इत्यादिभिः रूपैः अपि उत्पन्नः सः । यदा सः नासीत्, तदा मया चित्तं यदि सः अभविष्यत् तर्हि एतस्य रुचिः अधिका अभविष्यत् ।

मम माता सदा वदति केवलं अमेरिकाजनेभ्यः एशः रोचते । सा सत्यं वदेत् । अत्र एषः सुलभतया लभ्यते । अत्रत्यजनाः तस्य उपयोगं कर्तुं जानन्ति । अतः अत्र जनाः तस्य प्रियस्य उत्तमगुणान् जानन्ति । परन्तु एकं निश्चितम् एव यत् इतः परं तस्य स्थानं इतिहासे प्रसिद्धम् एव भविश्यति ।

No comments: