बहुवर्षान् अदृष्ट्वा, अहम् अद्य सेसमी स्ट्रीट् (Sesame Street) च मिस्टेर् रोजर्स् नेबोर्हूड् (Mr. Roger's Neighborhood) च द्ष्टवती । यत्र अहम् इदानीं वासं करोमि, तत्र एकः अस्ति, यः भारतदेषे जन्म वर्धनं च प्राप्तवान् । अतः सः अद्य एतत् किम् इति विचिन्त्य, दूरदर्शने एतौ कायक्रमौ चितवान् दृष्टवान् च । मया अपि चिन्तितं यत् एतत् बहु कालानन्तरम् दृश्यते अतः मया अपि द्रष्टव्यं न्यूनातिन्यूनम् एकं वारम् । तत् दृष्ट्वा, मम बहु आश्चर्यं यतः :
१) कार्यक्रमद्वये पाञ्चालिकाः जनाः चापि सन्ति । परन्तु मया केवलम् पाञ्चालिकानां नामानि स्मर्यन्ते । जानाः विस्मृताः एव । कारणं किम् इति अहं बहु चिन्तितवती । अन्ते एषः निर्णयः जातः । पाञ्चालिकाः बालकेभ्यः बहु रोचन्ते । ताः अधिकं वदन्ती । विचित्ररूपेण आचरन्ति । तेषां वर्णाः बहुप्रसन्नाः । प्रायः मम बाल्यकाले अहम् अपि तान् बहु इष्टवती अतः तानेव स्मरामि इदानीम् । मरणपर्यन्तम् अहम् ओस्कर् च तस्य अवकरिकां च न विस्मरेयम् ।
२) इदानिम् अपि तौ कार्यक्रमौ द्रष्टुम् इच्छामि! तौ बहुहास्यौ । प्रायः इदानीं तयोः दर्शनम् अधिकं रम्यते यतः स्मरणानि प्रियानि एव ।
अमेरिकादेशीयशिशुवैद्याः (American Academy of Pediatrics) वदन्ति यत् अपत्येभ्यः द्वितीयवर्षात् पूर्वं दूरदर्शनस्य अवलोकनं अनुचितम् इति । अहम् अपि अनुमन्ये यतः दूरदर्शनस्य कोऽपि लाभः नास्ति इति मम अभिप्रायः । परन्तु यदा कदापि अहम् ईदृशकार्यक्रमं प्रेक्ष्य चिन्तयामि यदि मम अपत्यानि दूरदर्शनं पश्यन्ति, तर्हि कापि हानिः अपि न भवेत् इति ।
Monday, December 3, 2007
Subscribe to:
Post Comments (Atom)
0 comments:
Post a Comment