अद्य बहुसमयानन्तरम् अहं ग्रन्थालयं गतवती अस्मि । अद्य सायङ्काले यैः सह अहम् इदानीं वासं करोमि ते उक्तवन्तः भगिनि, अत्र समीपस्थः ग्रन्थालयः अस्ति, गच्छाम वा? ततः ग्रन्थालयः गतः । तत्र मम स्मरणम् अभवत् ग्रन्थालयस्य विषये । मम विश्वविद्यालयपठनसमये अहं सर्वदा ग्रन्थालयं गच्छामि स्म, परन्तु तत्र बृहत्- ग्रन्थालयः आसीत् । अतः अनुभवः किञ्चित् भिन्नः एव । तत्र अपि मया अतीव आनन्दः प्राप्तः यतोऽहि शताधिकानि संस्कृतपुस्तकानि सन्ति । सामाजिकग्रनथालयं दृष्ट्वा मम सन्तोषः जातः यतोऽहि मम बाल्यकालस्य सरलेच्छाः सुखकरेच्छाः च स्मृताः ।
Tuesday, December 4, 2007
ग्रन्थालयस्य गमनम्

Subscribe to:
Post Comments (Atom)
1 comment:
पुस्तकानां विषये किं वदामि ? अहं तु पुस्तकप्रियः :) । परन्तु ममापि ईदृशी एव स्थितिः बाल्ये यावन्ति पुस्तकानि पठामि स्म तावन्ति इदानीं पठितुं समयः नास्ति । तथापि यदा कदापि किञ्चित् पठितुम् इदानीमपि प्रयते ।
Post a Comment