Tuesday, December 4, 2007

ग्रन्थालयस्य गमनम्



मम बाल्यकाले अहं बहु समीपस्थं सामाजिकग्रन्थालयं गच्छामि स्म । तत्र बहूनि पुस्तकानि भवन्ति स्म । यदा अहं तत्र गच्छामि स्म तदा सर्वदा बहूनि पुस्तकानि स्वीकृत्य एव बहिः आगच्छामि स्म । यदा कदापि मम माता मां तत्र त्यक्त्वा, सा क्रयणार्थम् आपणं गच्छति स्म । आपणस्य गमनानन्तरं सा मां पुनः आनीय, गृहं नयति स्म । परन्तु यदा मम पिता मां ग्रन्थालयं नयति स्म, तदा सः अपि पुस्तकानि पश्यन् ग्रन्थालये मम प्रतीक्षते स्म । किमर्थं मम पुस्तकस्य पठनस्य रुचिः तावती आसीत् इति विस्मर्यते परन्तु निश्चयेन स्मर्यते यत् प्रतिसप्ताहे मया प्रतीक्षा क्रियते स्म कदा मम माता पिता वा मां ग्रन्थालयं नयति इति ।

अद्य बहुसमयानन्तरम् अहं ग्रन्थालयं गतवती अस्मि । अद्य सायङ्काले यैः सह अहम् इदानीं वासं करोमि ते उक्तवन्तः भगिनि, अत्र समीपस्थः ग्रन्थालयः अस्ति, गच्छाम वा? ततः ग्रन्थालयः गतः । तत्र मम स्मरणम् अभवत् ग्रन्थालयस्य विषये । मम विश्वविद्यालयपठनसमये अहं सर्वदा ग्रन्थालयं गच्छामि स्म, परन्तु तत्र बृहत्- ग्रन्थालयः आसीत् । अतः अनुभवः किञ्चित् भिन्नः एव । तत्र अपि मया अतीव आनन्दः प्राप्तः यतोऽहि शताधिकानि संस्कृतपुस्तकानि सन्ति । सामाजिकग्रनथालयं दृष्ट्वा मम सन्तोषः जातः यतोऽहि मम बाल्यकालस्य सरलेच्छाः सुखकरेच्छाः च स्मृताः ।

1 comment:

अविनाश said...

पुस्तकानां विषये किं वदामि ? अहं तु पुस्तकप्रियः :) । परन्तु ममापि ईदृशी एव स्थितिः बाल्ये यावन्ति पुस्तकानि पठामि स्म तावन्ति इदानीं पठितुं समयः नास्ति । तथापि यदा कदापि किञ्चित् पठितुम् इदानीमपि प्रयते ।