Friday, November 30, 2007
आ मुक्तेः संसारः
यदा कदापि अस्मत्जीवने ऊहातीताः घटनाः भवन्ति । ताः किमर्थं प्रवृत्ताः अथवा कस्मात् करणात् उत्पन्नाः इति न ज्ञायते । यदा तासां परिणामाः आनन्दमयाः सन्ति तदा सः अवसरः किमर्थम् आगतः इति अचिन्तयित्वा, परिणमाः रम्यन्ते । केचन जनाः चिन्तयेयुः मया भगवान् बहु तोषितः अस्ति अथवा अहम् बहु उत्तमकार्यं कुर्वन् अस्मि अतः एतत् साफल्यं प्राप्तम् इति । तथापि तस्मिन् विषये साधार्णतया कपि चिन्ता न भवति यतोऽहि वस्तुतया दुखं न सोढनीयम् । परन्तु यदा दुर्घटनाः भवन्ति, तदा अस्माकं चिन्तनरीतिः भिन्ना वर्तते । किमर्थम् एवम् अभवत् ? अहं किम् अनुचितम् कार्यं क्तवान् येन एषः प्रसङ्गः उद्भूतः ? कीदृशः भगवान् माम् एवं दण्डयति इति रूपेणा चिन्तनानि उत्पद्यन्ते । एतेषां चिन्तनानां लभाः न सन्ति तथापि ईदृशचिन्तनानि सहजतया आगच्छन्ति ।
Wednesday, November 28, 2007
श्री अरुणाचलपञ्चरत्नम्
करुणापूर्ण सुधाब्दे कबलितघनविश्वरूप किरणावल्या
अरुणाचल परमात्मन्नरुणो भव चित्तकुञ्जसुविकासाय ॥ १ ॥
त्वय्यरुणाचल सर्वं भूत्वा स्थित्वा प्रलीनमेतच्चित्रम् ।
हृद्यहमित्यात्मतया नृत्यसि भोस्ते वदन्ति हृदयं नाम ॥ २ ॥
अहमिति कुत आयातीत्यन्विष्यान्तः प्रविष्टयाऽत्यमलधिया ।
अवगम्य स्वं रूपं शाम्यत्यरुणाचल त्वयि नदीवाब्धौ ॥ ३ ॥
त्यक्त्वा विषयं बाह्यं रूद्धप्राणेन रुद्धमनसान्तस्त्वाम् ।
ध्यायन्पश्यति योगी दीधितिमरुणाचल त्वयि महीयं ते ।। ४ ॥
त्वयार्पितमनसा त्वां पश्यन् सर्वं तवाकृतितया सततम् ।
भजतेऽनन्यप्रीत्या स जयत्यरुणाचल त्वयि सुखे मग्नः ।। ५ ॥
सामान्यतया यदा जनैः ज्ञायते यत् एषा सरलसंस्कृतं बोधयति तदा बहुक्लिष्टकराः विचित्राः वा प्रार्थनाः क्रियन्ते । एतत् बहुपुरातनं पत्रं यस्य अर्थं ज्ञातुं पण्डिताः शतवर्षान् पठेयुः कृपया मां पाठयतु अथवा एतत् द्विसहस्रपुटात्मकं संस्कृतेन लिखितं पुस्तकं कृपया अनुवादयतु वा किमपि अशक्यं कार्यं जनाः निवेदयन्ति । परन्तु सद्यः एकं कौतुकवत् अभियाचनम् आगतम् । अत्र समीपे श्रीरमणमहर्षेः भक्ताः प्रतिसप्ताहान्ते स्वाध्ययनार्थं मिलन्ति । तत्र कोऽपि मम परिचितः जनः गच्छन् अस्ति । सः मां सूचितवान् वयम् एकं श्रीरमणमहर्षिणा रचितं काव्यं पठन्तः स्मः । यत् वयं पठामः, तत् आङ्गलभाषया लखितम् अस्ति । अहं देवनागरीलिप्या लेखितुं अप्रयते । तत् एकं वारं परिष्कर्तुं शक्यते किम् इति । अहम् उक्तवती यत् एतस्मिन् विषये स्वल्पम् एव जाने परन्तु द्रष्टुं शक्नोमि । तदा बोधितास्मि यत् एते अतिसुन्दराः श्लोकाः वर्तन्ते। न केवलं सौन्दर्यम् अपि तु एतेषाम् आध्यात्मिकगभीरता अस्ति । एवं बहुश्लोकाः सन्ति यान् वयं साधारणतया न श्रुण्मः । कदापि अन्येषु प्रसङ्गेषु वयं ज्ञातुं शक्नुमः ।
अद्य आरभ्य अहं प्रतिदिनम् एतस्मिन् जालपुटे किमपि लिखामि इति मम चिन्तनम् अस्ति । मम जीवनं बहुशीघ्रतया गच्छदस्ति । मम पिता इव सर्वं विस्मरेयम् इति भयात् एतत् ब्लोग् आरब्धम् अस्ति । एतेन ब्लोगमाध्यमेन कानिचन जीवनदलानि स्मरेयम् इति आशंसे ।
अत्र बहवः दोषाः स्युः । कृपया सूच्यन्तां क्षम्यन्तां च । गच्छता कालेन अभ्यासेन च अहं लेखने सौष्टवम् औदार्यं च प्राप्नोमि इति आशया लिखन्ती अस्मि ।

Subscribe to:
Posts (Atom)